Stotra Sangrah स्तोत्र संग्रह Carpaṭa-Pañjarikā-Stotram~चर्पटपञ्जरिकास्तोत्रम् 378 views0 Share || चर्पटपञ्जरिकास्तोत्रम् || दिनमपि रजनी सायं प्रातः शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायु ॥ भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढमते । प्राप्ते सन्निहिते मरणे नहि नहि रक्षति डुकृञ् करणे ॥१॥ अग्ने वह्निः पृष्ठे भानू रात्रौ चिबुकसमर्पितजानुः । करतलभिक्षा तरुतलवासस्तदपि न मुञ्चत्याशापाशः ॥२॥ यावद् वित्तोपार्जनसक्तः तावन्निजपरिवारो रकतः । पश्चाध्दावति जर्जरदेहे वार्ता पृच्छति कोऽपि न गेहे ॥३॥ जटिलो मुण्डी लुञ्चितकेशः काषायाम्बरबहुकृतवेषः । पश्यन्नपि च न पश्यति मूढः उदरनिमित्तं बहुकृतशोकः ॥४॥ भगवदगीता किञ्चितधीता गङ्गाजललवकणिका पीता । सकृदपि यस्य मुरारिसमर्चा तस्या यमः किं कुरुते चर्चाम ॥५॥ अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृध्दो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम् ॥६॥ बालस्तावत्क्रीडासक्तस्तरुणस्तावत्तरुणीरक्तः । वृध्दस्तावच्चिन्तामग्नः परे ब्रह्मणि कोऽपि न लग्नः ॥७॥ पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् । इह संसारे खलु दुस्तारे कृपयापारे पाहि मुरारे ॥८॥ पुनरपि रजनी पुनरपि दिवसः पुनरपि पक्षः पुनरपि मासः । पुनरप्ययनं पुनरपि वर्षं तदपि न मुञ्चत्याशामर्षम् ॥९॥ वयसि गते कः कामविकारः शुष्के नीरे कः कासारः । नष्टे द्रव्ये कः परिवारो ज्ञाते तत्वे कः संसारः ॥१०॥ नारीस्तनभरनाभिनिवेशं मिथ्यामायामोहावेशम् । एतन्मांसवसादिविकारं मनसि विचारय वारम्वारम् ॥११॥ कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः । इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम् ॥१२॥ गेयं गीतानामसह्स्रं ध्येयं श्रीपतिरुपमजस्रम् । नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम् ॥१३॥ यावज्जीवो निवसति देहे कुशलं तावत्पृच्छति गेहे । गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ॥१४॥ सुखतः क्रियते रामाभोगः पश्चाध्दन्त शरीरे रोगः । यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥१५॥ रथ्याचर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः । नाहं न त्वं नायं लोकस्तदपि किमर्थं क्रियते शोकः ॥१६॥ कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् । ज्ञानविहीनः सर्वमतेन मुक्तिं न भजति जन्मशतेन ॥१७॥ ॥ इति श्रीमच्छंकराचार्यविरचितं चर्पटपंजरिकास्तोत्रं संपूर्णम् ॥ Stay Connected What is your reaction? INTERESTING 0 KNOWLEDGEABLE 0 Awesome 0 Considerable 0 improvement 0 jivansarJivansar.com is a website founded by Mr. Harshraj Solanki the main aim of the astrological website is to aware people about genuine astrological knowledge and avoid misconception regarding astrology and spirituality.By his genuine practical and Scientific knowledge of astrology,people gets benefit and appreciate his work very much as well as his website for analysing any Kundli very scientifically and gives powerful remedies. His predictions are very real deep observed and always try to give traditional scientific remedies which is based on Biz Mantra,Tantrik totka Pujas,Yoga Sadhana,Rudraksha and Gems therapy. Website Facebook
<description>Discover the top Canadian online casinos offering a wide range of games, bonuses, and secure gaming experiences.</description>
<description>Discover the top online best casinos for 2023, featuring the latest games, bonuses, and tips to enhance your gaming experience.</description>
<description>Discover the top online casinos of 2023 that offer the best gaming experiences, bonuses, and secure environments. Join now and elevate your gaming adventure!”</description>
<description>Esplora Crocoslots, la piattaforma di slot online che offre una vasta gamma di giochi, promozioni e possibilità di vincita.</description>
<description>Explore the best all gambling sites available online, offering a variety of games, bonuses, and payment options. Discover your ideal gaming destination.</description>