Kavach Sangrah कवच संग्रह Shree Krishna Kavach~श्री कृष्ण कवच 315 views0 Share || श्री कृष्ण कवच || ब्रह्माण्ड-पावन श्रीकृष्ण कवच ।। ब्रह्मोवाच ।। राधाकान्त महाभाग ! कवचं यत् प्रकाशितं । ब्रह्माण्ड-पावनं नाम, कृपया कथय प्रभो ! ।। १ मां महेशं च धर्मं च, भक्तं च भक्त-वत्सल । त्वत्-प्रसादेन पुत्रेभ्यो, दास्यामि भक्ति-संयुतः ।। २ ।। श्रीकृष्ण उवाच ।। श्रृणु वक्ष्यामि ब्रह्मेश ! धर्मेदं कवचं परं । अहं दास्यामि युष्मभ्यं, गोपनीयं सुदुर्लभम् ।। १ यस्मै कस्मै न दातव्यं, प्राण-तुल्यं ममैव हि । यत्-तेजो मम देहेऽस्ति, तत्-तेजः कवचेऽपि च ।। २ कुरु सृष्टिमिमं धृत्वा, धाता त्रि-जगतां भव । संहर्त्ता भव हे शम्भो ! मम तुल्यो भवे भव ।। ३ हे धर्म ! त्वमिमं धृत्वा, भव साक्षी च कर्मणां । तपसां फल-दाता च, यूयं भक्त मद्-वरात् ।। ४ ब्रह्माण्ड-पावनस्यास्य, कवचस्य हरिः स्वयं । ऋषिश्छन्दश्च गायत्री, देवोऽहं जगदीश्वर ! ।। ५ धर्मार्थ-काम-मोक्षेषु, विनियोगः प्रकीर्तितः । त्रि-लक्ष-वार-पठनात्, सिद्धिदं कवचं विधे ! ।। ६ यो भवेत् सिद्ध-कवचो, मम तुल्यो भवेत्तु सः । तेजसा सिद्धि-योगेन, ज्ञानेन विक्रमेण च ।। ७ ।। मूल-कवच-पाठ ।। विनियोगः- ॐ अस्य श्रीब्रह्माण्ड-पावन-कवचस्य श्रीहरिः ऋषिः, गायत्री छन्दः, श्रीकृष्णो देवता, धर्म-अर्थ-काम-मोक्षेषु विनियोगः । ऋष्यादि-न्यासः- श्रीहरिः ऋषये नमः शिरसि, गायत्री छन्दसे नमः मुखे, श्रीकृष्णो देवतायै नमः हृदि, धर्म-अर्थ-काम-मोक्षेषु विनियोगाय नमः सर्वांगे । प्रणवो मे शिरः पातु, नमो रासेश्वराय च । भालं पायान् नेत्र-युग्मं, नमो राधेश्वराय च ।। १ कृष्णः पायात् श्रोत्र-युग्मं, हे हरे घ्राणमेव च । जिह्विकां वह्निजाया तु, कृष्णायेति च सर्वतः ।। २ श्रीकृष्णाय स्वाहेति च, कण्ठं पातु षडक्षरः । ह्रीं कृष्णाय नमो वक्त्रं, क्लीं पूर्वश्च भुज-द्वयम् ।। ३ नमो गोपांगनेशाय, स्कन्धावष्टाक्षरोऽवतु । दन्त-पंक्तिमोष्ठ-युग्मं, नमो गोपीश्वराय च ।। ४ ॐ नमो भगवते रास-मण्डलेशाय स्वाहा । स्वयं वक्षः-स्थलं पातु, मन्त्रोऽयं षोडशाक्षरः ।। ५ ऐं कृष्णाय स्वाहेति च, कर्ण-युग्मं सदाऽवतु । ॐ विष्णवे स्वाहेति च, कंकालं सर्वतोऽवतु ।। ६ ॐ हरये नमः इति, पृष्ठं पादं सदऽवतु । ॐ गोवर्द्धन-धारिणे, स्वाहा सर्व-शरीरकम् ।। ७ प्राच्यां मां पातु श्रीकृष्णः, आग्नेय्यां पातु माधवः । दक्षिणे पातु गोपीशो, नैऋत्यां नन्द-नन्दनः ।। ८ वारुण्यां पातु गोविन्दो, वायव्यां राधिकेश्वरः । उत्तरे पातु रासेशः, ऐशान्यामच्युतः स्वयम् । सन्ततं सर्वतः पातु, परो नारायणः स्वयं ।। ९ ।। फल-श्रुति ।। इति ते कथितं ब्रह्मन् ! कवचं परमाद्भुतं । मम जीवन-तुल्यं च, युष्मभ्यं दत्तमेव च ।। Stay Connected What is your reaction? INTERESTING 0 KNOWLEDGEABLE 0 Awesome 0 Considerable 0 improvement 0 Astologer cum Vastu vid Harshraj SolankiJivansar.com is a website founded by Mr. Harshraj Solanki the main aim of the astrological website is to aware people about genuine astrological knowledge and avoid misconception regarding astrology and spirituality.By his genuine practical and Scientific knowledge of astrology,people gets benefit and appreciate his work very much as well as his website for analysing any Kundli very scientifically and gives powerful remedies. His predictions are very real deep observed and always try to give traditional scientific remedies which is based on Biz Mantra,Tantrik totka Pujas,Yoga Sadhana,Rudraksha and Gems therapy. Website Facebook