Stotra Sangrah स्तोत्र संग्रह Shri Hanumatprokta Mantrarajatmak Ramstav~श्री हनुमत्प्रोक्त मन्त्रराजात्मक रामस्तव 311 views0 Share ॥ श्रीहनुमत्प्रोक्त मन्त्रराजात्मक रामस्तव ॥ तिरश्चामपि चारातिसमवायं समेयुषाम् । यतः सुग्रीवमुख्यानां यस्तमुग्रं नमाम्यहम् ॥ १ ॥ सकुदेव प्रपन्नाय विशिष्टामैरयच्छ्रियम् । बिभीषणायाब्धितटे यस्तं वीरं नमाम्यहम् ॥ २ ॥ यो महान् पूजितो व्यापी महान् वै करुणामृतम् । श्रुतं येन जटायोश्च महाविष्णुं नमाम्यहम् ॥ ३ ॥ तेजसाप्यायिता यस्य ज्वलन्ति ज्वलनादयः । प्रकाशयते स्वतन्त्रो यस्तं ज्वलन्तं नमाम्यहम् ॥ ४ ॥ सर्वतोमुखता येन लीलया दर्शिता रणे । रक्षसां खरमुख्यानां तं वन्दे सर्वतोमुखम् ॥ ५ ॥ नृभावं यः प्रपन्नानां हिनस्ति च तथा नृषु । सिंहः सत्त्वेष्विवोत्कृष्टस्तं नृसिंहं नमाम्यहम् ॥ ६ ॥ यस्माद्विभ्यति वातर्कज्वलनेन्द्राः समृत्यवः । भियं तनोति पापानां भीषणं तं नमाम्यहम् ॥ ७ ॥ परस्य योग्यतापेक्षारहितो नित्यमङ्गलम् । ददात्येव निजौदार्याद्यस्तं भद्रं नमाम्यहम् ॥ ८ ॥ यो मृत्युं निजदासानां नाशयत्यखिलेष्टदः । तत्रोदाहृतये व्याधो मृत्युमृत्युं नमाम्यहम् ॥ ९ ॥ यत्पादपद्मप्रणतो भवत्युत्तमपुरुषः । तमजं सर्वदेवानां नमनीयं नमाम्यहम् ॥ १० ॥ अहंभावं समुत्सृज्य दास्येनैव रघुत्तमम् । भजेऽहं प्रत्यहं रामं ससीतं सहलक्ष्मणम् ॥ ११ ॥ नित्यं श्रीरामभक्तस्य किंकरा यमकिंकराः । शिवमय्यो दिशस्तस्य सिद्धयस्तस्य दासिकाः ॥ १२ ॥ इमं हनुमता प्रोक्तं मन्त्रराजात्मकं स्तवम् । पठत्यनुदिनं यस्तु स रामे भक्तिमान् भवेत् ॥ १३ ॥ ॥ इति श्रीहुनुमत्प्रोक्त मन्त्रराजात्मक रामस्तव संपूर्णम् ॥ Stay Connected What is your reaction? INTERESTING 0 KNOWLEDGEABLE 0 Awesome 0 Considerable 0 improvement 0 Astologer cum Vastu vid Harshraj SolankiJivansar.com is a website founded by Mr. Harshraj Solanki the main aim of the astrological website is to aware people about genuine astrological knowledge and avoid misconception regarding astrology and spirituality.By his genuine practical and Scientific knowledge of astrology,people gets benefit and appreciate his work very much as well as his website for analysing any Kundli very scientifically and gives powerful remedies. His predictions are very real deep observed and always try to give traditional scientific remedies which is based on Biz Mantra,Tantrik totka Pujas,Yoga Sadhana,Rudraksha and Gems therapy. Website Facebook