Stotra Sangrah स्तोत्र संग्रह श्री रामरक्षा स्तोत्र~Ramraksha Strotra 369 views0 Share || श्री रामरक्षा स्तोत्र || ~श्री गणेशाय नमः~ अस्य श्रीरामरक्षास्तोञ मंञस्य । बुधकौशिकऋषिः । अनुष्टुप छन्दः । सीता शक्तिः । श्रीमध्दनुमान् कीलकम् । श्रीरामचंद्रप्रीत्यर्थे जपे विनियोगः । अथ ध्यानम् । ध्यायेदाजानबाहुं धृतशरधनुषं बध्दपद्मासनस्थं । पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामाङ्कारुढसीता मुखकमलमिलल्लोचनं नीरदाभं । नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम् ॥ इति ध्यानम् । चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥१॥ ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥२॥ सासीतूण धनुर्बाणपाणिं नक्तचरान्तकम् । स्वलीलया जगत् त्रातु माविर्भूतमजं विभुम् ॥३॥ रामरक्षां पठेत् प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरो मे राघवः पातु भालं दशरथात्मजः ॥४॥ कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥५॥ जिव्हां विद्यानिधिःपातु कण्ठं भरतवन्दितः । स्कन्धौ दिव्यायुधःपातु भुजौ भग्नेशकार्मुकः ॥६॥ करौ सीतापतिःपातु हृदयं जामदग्न्यजित् । मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥७॥ सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः । ऊरु रघूत्तमः पातु रक्षःकुल विनाशकृत ॥८॥ जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः । पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः ॥९॥ एतां रामबलोपेतां रक्षां यः सुकृती पठेत् । सचिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥१०॥ पातालभूतल व्योमचारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥११॥ रामेति रामभद्रेति रामचंद्रेति वा स्मरन् । नरो न लिप्यते पापै र्भुक्तिं मुक्तिं च विन्दति ॥१२॥ जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् । यः कण्ठे धारयेत्तस्य करस्था सर्व सिध्दयः ॥१३॥ वज्रपज्जरनामेदं यो रामकवचं स्मरेत् । अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥१४॥ आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः । तथा लिखितवान् प्रात प्रबुध्दो बुधकौशिकः ॥१५॥ आरामः कल्पवृक्षाणां विरामः सकलापदाम् । अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥१६॥ तरुणौ रुपसंपन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥ फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥ शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्यताम् । रक्षः कुलनिहन्तारौ त्रायेतां नौ रघूत्तमौ ॥१९॥ आत्तसज्य धनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ । रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥२०॥ संनध्दः कवची खड्गी चापबाणधरो युवा । गच्छन् मनोरथोऽस्माकं रामः पातु स लक्ष्मणः ॥२१॥ रामो दाशरथिः शूरो लक्ष्मणानुचरो बली । काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः ॥२२॥ वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥२३॥ इत्येतानि जपन् नित्यं मद्भक्तः श्रध्दयान्वितः । अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः ॥२४॥ रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् । स्तुवन्ति नामभिर्दिवैर्न ते संसारिणो नरः ॥२५॥ रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम् । काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् । राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं । वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥ रामाय रामभद्राय रामचंद्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥२७॥ श्रीराम राम रघुनंदन राम राम । श्रीराम राम भरताग्रज राम राम । श्रीराम राम रणकर्कश राम राम । श्रीराम राम शरणं भव राम राम ॥२८॥ श्रीरामचंद्रचरणौ मनसा स्मरामि । श्रीरामचंद्रचरणौ वचसा गृणामि । श्रीरामचंद्रचरणौ शिरसा नमामि । श्रीरामचंद्रचरणौ शरणं प्रपद्ये ॥२९॥ माता रामौ मत्पिता रामचंद्रः । स्वामी रामौ मत्सखा रामचंद्रः । सर्वस्वं मे रामचंद्रो दयालुर्नान्यं जाने नैव जाने न जाने ॥३०॥ दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा । पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् ॥३१॥ लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् । कारुण्यरुपं करुणाकरं तं श्रीरामचंद्र शरणं प्रपद्ये ॥३२॥ मनोजवं मारुततुल्यवेगं जितेंद्रियं बुध्दिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥ कूजन्तं रामरामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकि कोकिलम् ॥३४॥ आपदामपहर्तारं दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥ भर्जनं भवबीजानामर्जनं सुखसंपदाम् । तर्जनं यमदूतानां रामरामेति गर्जनम् ॥३६॥ रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । रामान्नास्ति परायणं परतरं रामस्य दासोऽस्महं । रामे चित्तलयः सदा भवतु मे भो राम मामुध्दर ॥३७॥ रामरामेति रामेति रमे रामे मनोरमे । सहस्त्रनामतत्त्युलं रामनाम वरानने ॥३८॥ इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् । ॥ श्रीसीतारामचंद्रार्पणमस्तु ॥ Stay Connected What is your reaction? INTERESTING 0 KNOWLEDGEABLE 0 Awesome 0 Considerable 1 improvement 0 jivansarJivansar.com is a website founded by Mr. Harshraj Solanki the main aim of the astrological website is to aware people about genuine astrological knowledge and avoid misconception regarding astrology and spirituality.By his genuine practical and Scientific knowledge of astrology,people gets benefit and appreciate his work very much as well as his website for analysing any Kundli very scientifically and gives powerful remedies. His predictions are very real deep observed and always try to give traditional scientific remedies which is based on Biz Mantra,Tantrik totka Pujas,Yoga Sadhana,Rudraksha and Gems therapy. Website Facebook
<description>Discover the top Canadian online casinos offering a wide range of games, bonuses, and secure gaming experiences.</description>
<description>Discover the top online best casinos for 2023, featuring the latest games, bonuses, and tips to enhance your gaming experience.</description>
<description>Discover the top online casinos of 2023 that offer the best gaming experiences, bonuses, and secure environments. Join now and elevate your gaming adventure!”</description>
<description>Esplora Crocoslots, la piattaforma di slot online che offre una vasta gamma di giochi, promozioni e possibilità di vincita.</description>
<description>Explore the best all gambling sites available online, offering a variety of games, bonuses, and payment options. Discover your ideal gaming destination.</description>